top of page
तुरजास्तुतिः अथवा तुलजास्तुतिः तुळजास्तुतिः (स्कन्दपुराणान्तर्गता देवकृता) | Tulaja stuti or Turaja Stuti
श्रीतुरजास्तुतिः
अथ तुरजास्तुतिः
देवाउचुः -
नमो नमस्तेऽस्तु त्र्यम्बके शिवे त्र्यैलोक्यं सन्त्राण कृतावतारे ।
त्रिविष्टपैरर्चित पादपीठे त्रिधा त्रिवेधाद्युपगीय माने ॥ १॥
गुणैस्त्रिभिर्लोहितशुक्लकृष्णे उत्पत्ति संस्था प्रलयानं करोषि ।
त्वमेवमाद्या प्रकृतिः पुराणा त्वमस्य विश्वस्य परं निधानम् ॥ २॥
भुतेन्द्रियार्थास्त्रिविधाश्च लोके यागादि कर्मेद्रिय वृत्तयश्च ।
प्राणान्मनो बुद्धिरहं कृतिश्च प्रज्ञास्मृतिर्मोहविचेतना च ॥ ३॥
कोषाश्च चक्राणि च वायुमार्गा एधा तवः सप्तविद्याश्च मातः ।
परस्परं हे…