top of page
धर्माम्बिकास्तवः | Hymn on dharmambika
धर्माम्बिकास्तवः
त्यागराजविरचितः
कल्याणामृतकामधेनुमहिले कामप्रियाहर्षदे
कारुण्यामृतवापिके पिकशिशुस्वानन्दसल्लापिनि ।
कामेशप्रियकामकल्पलतिके कादम्बवाटीप्रिये
देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥ १ ॥
एणीबालविलोचने फणिमणिश्रेणीलसत्कङ्कणे
तूणीराकृतजङ्घिके त्रिनयने स्थाणोर्मनोहारिणि ।
वाणीपाणिसरोजवादितलसद्वीणास्वरालापिके
देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥ २ ॥
ईशित्वादिविभूतिकस्वविभवे ईकारसिंहासने
इन्द्राणीपठितस्तुते इहपरत्राणध्वजे इन्दिरे ।
ईशानादिसुरेन्द्रसेवकजने ईशाधिराजेश्वरी
देहि श्रीपदपद्मभक्तिमनिशं धर्माम्बिके श्रीशिवे ॥ ३ ॥
लावण्याब्धिपयोजवक्त्रनयने लक्ष्मीकरालोकने
लक्ष्मीकान्तनिषेविताङ्घ्रिकमले लम्बोदरश्रीकरि ।
लक्ष्यालक्ष्यविलक्षणे क्षणवतां स्वानन्दवृद्धिप्रदे
देहि …bottom of page
