top of page

नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् (कालिदासविरचितम्) | Navaratnamala by Kalidas

नवरत्नमाला अथवा श्यामलानवरत्नमालिकास्तोत्रम् कालिदासविरचितम् 

मातङ्गीस्तोत्रं च

ओङ्कारपञ्जरशुकीमुपनिषदुद्यानकेलिकलकण्ठीम् ।
आगमविपिनमयूरीमार्यामन्तर्विभावये गौरीम् ॥ १॥

दयमानदीर्घनयनां देशिकरूपेणदर्शिताभ्युदयाम् ।  var  देशक
वामकुचनिहितवीणां वरदां सङ्गीतमातृकां वन्दे ॥ २॥

श्यामलिमसौकुमार्यां सौन्दर्यानन्दसम्पदुन्मेषाम् ।
तरुणिमकरुणापूरां मदजलकल्लोललोचनां वन्दे ॥ ३॥

नखमुखमुखरितवीणानादरसास्वादनवनवोल्लासम् ।
मुखमम्ब मोदयतु मां मुक्ताताटङ्कमुग्धहसितं ते ॥ ४॥

सरिगमपधनिरतां तां वीणासङ्क्रान्तकान्तहस्तां ताम् ।
शान्तां मृदुलस्वान्तां कुचभरतान्तां नमामि शिवकान्ताम् ॥ ५॥

अवटुतटघटितचूलीताडिततालीपलाशताटङ्काम् ।
वीणावादनवेलाऽकम्पितशिरसां नमामि मातङ्गीम् ॥ ६॥

वीणारवानुषङ्गं विकचमुखाम्भोजमाधुरीभृङ्गम् ।
करुणापूरतरङ्गं कल…
bottom of page