top of page
पद्मावतीकवचम् (देवीयामलतन्त्रान्तर्गतम्) | Padmavati kavacham
पद्मावतीकवचम्
श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
अधुना कवचं दिव्यं मन्त्रगर्भं वराभयम् ।
वक्ष्ये पार्वति भक्ताते वज्रपञ्जरकाभिधम् ॥ १॥
गुह्यं च परमं गुह्यं सर्वस्वं मे रहस्यकम् ।
सर्वमन्त्रमयं तत्त्वं देवी पद्मावती प्रियम् ॥ २॥
विनाज्ञानेन सिद्धिः स्यात्कवचेन्द्रेण पार्वति ।
मन्त्रस्यास्य महादेव्या नाख्येयं यत्रकुत्रचित् ॥ ३॥
अस्य धारणमात्रेण भैरवोऽहं शिवोऽस्म्यहम् ।
विष्णुर्नारायणो लोके ब्रह्मलोक पितामहः ॥ ४॥
इन्द्रो दिवस्पतिर्देवि गुरुर्वागीशताङ्गतः ।
शुक्रो…bottom of page
