top of page

प्रत्यङ्गिरासहस्रनामावलिः | Pratyangira sahasra namavali

श्रीप्रत्यङ्गिरासहस्रनामावलिः 

ईश्वर उवाच ।
श‍ृणु देवि प्रवक्ष्यामि साम्प्रतं त्वत्पुरःसरम् ।
सहस्रनाम परमं प्रत्यङ्गिरासुसिद्धये ॥

सहस्रनामपाठे यः सर्वत्र विजयी भवेत् ।
पराभवो न चास्यास्ति सभायां वासने रणे ॥

तथा तुष्टा भवेद्देवी प्रत्यङ्गिरास्य पाठतः ।
यथा भवति देवेशि साधकः शिव एव हि ॥

अश्वमेधसहस्राणि वाजपेयस्य कोटयः ।
सकृत्पाठेन जायन्ते प्रसन्ना यत्परा भवेत् ॥

भैरवोऽस्य ऋषिश्छन्दोऽनुष्टुप् देवि समीरिता ।
प्रत्यङ्गिरा विनियोगः स्यात्सर्वसम्पत्ति हेतवे…
bottom of page