top of page
भूमिस्तोत्रं पृथ्वीस्तोत्रं वसुधा वसुन्धरा स्तोत्रम् च (देवीभागवतमहापुराणान्तर्गतम्) | bhumi stotram
भूमिस्तोत्रम्
भूमिस्तोत्रवर्णनम् ।
नारद उवाच -
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥
प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा ।
जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २॥
वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति ।
सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मकथनं वद मङ्गलकारणम्…bottom of page
