top of page
भूस्तुतिः १ (वेदान्तदेशिकविरचिता सङ्कल्पकल्पलतिकामवधिं क्षमायाः) | Bhu stuti 1
भूस्तुतिः
वेदान्तदेशिककृता ।
सङ्कल्पकल्पलतिकामवधिं क्षमायाः
स्वेच्छावराहमहिषीं सुलभानुकम्पाम् ।
विश्वस्य मातरमकिञ्चनकामधेनुं
विश्वम्भरामशरणः शरणं प्रपद्ये ॥ १॥
त्वां व्याहृतिः प्रथमतः प्रणवः प्रियं ते
संवेदयत्यखिलमन्त्रगणस्तमेव ।
इत्थं प्रतीतविभवामितरेष्विदानीं
स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ २॥
नित्यं हिताहितविपर्ययबद्धभावे
त्वद्वीक्षणैकविनिवर्त्यबहुव्यपाये ।
मुग्धाक्षरैरखिलधारिणि मोदमाना
मातः स्तनन्धयधियं मयि वर्तयेथाः ॥ ३॥
सङ्कल्पकिङ्करचराचरचक्रवालं
सर्वातिशायिनमनन्तशयस्य पुंसः ।
भूमानमात्मविभवैः पुनरुक्तयन्ती
वाचामभूमिरपि भूमिरसि त्वमेका ॥ ४…