top of page

भ्रमराम्बाष्टकम् ३ (श्रीकान्तस्तुतसद्गुणाञ्चितपदां सिद्धर्षिसंसेवितां) | Bhramaramba ashtakam 3

श्रीभ्रमराम्बाष्टकम् 
श्रीकान्तस्तुतसद्गुणाञ्चितपदां सिद्धर्षिसंसेवितां
      बालेन्दुद्युतिपादपल्लवयुतां ब्रह्माण्डसञ्चारिणीम् ।
चारुश्रीकलशातपत्रकमहासौभाग्यरेखाङ्घ्रिकां
      श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ १॥

पादाम्भोरुहमध्यमानमहिषाम्भद्रायमानोदयां
      कूर्माकारपदोपरिस्थलरुचिं घोरान्धकारापहाम् ।
जलघानिर्मितमान्मधेयशरधिं जम्बूफलश्रीमयीं
      श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे । २॥

जानुश्रीजितकुम्भिकुम्भविभवां चण्डीं महायोगिनीं
      रम्भारम्भकराधरोरु युगलां रत्नासनस्थायिनीम् ।
श्रीचक्राङ्कितचक्रविभ्रमकटीं सिन्दूरवर्णोज्ज्वलां
      श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ३॥

भर्मानिर्मितदिव्यरत्नदलनां भव्याम्बरालङ्कृतां
      सौन्दर्योधकपूर्णनाभिसरसीं शातोल्लसन्मध्यमाम् ।
वक्शोजद्वयशातकुम्भकलशां वश्यादि मन्त्रात्मिकां
      श्रीशैलभ्रमराम्बिकां शिवयुतां चिन्मात्रमूर्तिं भजे ॥ ४॥

कण्ठालम्बिततारहारपटलां कैवल्यसन्दायिनीं
    …
bottom of page