top of page
महाराज्ञीसहस्रनामस्तोत्रम् अथवा राजराजेश्वरीसहस्रनामस्तोत्रम् (रुद्रयामलान्तर्गतम्) | Maharagyi sahasra nama stotram
श्रीमहाराज्ञीस हस्रनामस्तोत्रम्
अथवा श्रीमहाराज्ञी राजराजेश्वरीसहस्रनामस्तोत्रम्
पार्वत्युवाच -
भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण ।
शरण्य सर्वलोकेश शरणागतवत्सल ॥ १॥
कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् ।
मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ २॥
श्रीशिव उवाच -
या देवी निष्कला राज्ञी भगवत्यमलेश्वरी ।
सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ ३॥
तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति ।
अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ ४॥
परमार्थप्रदं नित्यं परमैश्वर्यकारणम् ।
सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम्…bottom of page
