top of page
मूकपञ्चशती (आर्या पादारविन्द स्तुति कटाक्ष मन्दस्मितशतकम्) | Mukapanchashati (Arya padaravinda stuti kataksha manda smita shatakam) Part-01
श्रीमूकपञ्चशती
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात् कटाक्षं कल्याणी कदम्बवनवासिनी ॥
॥ श्रीः ॥
॥ श्रीचन्द्रमौलीश्वराय नमः ॥
॥ श्रीकारणपरचिद्रूपायै नमः ॥
श्रीमूकमहाकविप्रणीता
॥ श्रीः ॥
॥ श्रीमूकपञ्चशती ॥
श्रीकामाक्षीपरदेवतायाः पादारविन्दयोः
भक्तिभरेण समर्पितम् ॥
आर्यामेव विभावयन्मनसि यः पादारविन्दं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विता-
मारोहत्यपवर्गसौधवलभीमानन्दवीचीमयीम्॥
[मन्दस्मित…
