top of page
मूकाम्बिकास्तोत्रम् | Mukambika stotram
श्रीमूकाम्बिकास्तोत्रम्
मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां
ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलाभांशुकां
कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥
बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् ।
शङ्खञ्चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥
मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण संसेविताम् ।
शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥
सन्ध्यारागसमाननां त्रिनयनां सन्मानसैः पूजितां
चक्राक्षाभयकम्बुशोभितकरां प्रालम्बवेणीयुताम् ।
ईशत्फुल्लसुकेतकीवरदलैरभ्यर्चितां तां शिवां
तां बालां त्रिपुरां…