top of page

मूकाम्बिका दिव्यसहस्रनामस्तोत्रम् | Mukambika divya sahasra nama stotram

श्रीमूकाम्बिका दिव्यसहस्रनामस्तोत्रम् 

सूत उवाच ।
पुरा कैलासशिखरे मार्कण्डेयो महामुनिः ।
पप्रच्छ गिरिजानाथं सिद्धगन्धर्वसेवितम् ॥ १॥

सहस्रार्कप्रतीकाशं त्रिनेत्रं चन्द्रशेखरं ।
भगवत्या कृतं कर्म दानवानां रणे कथम् ॥ २॥

श्री शिव उवाच ।
श‍ृणु वत्स प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
त्रिगुणा श्रीर्महालक्ष्मीः योऽसौभाग्यवती परा ॥ ३॥

योगनिद्रानिमग्नस्य विष्णोरमिततेजसः ।
पिन्ऽजूषतत्समुद्भूतौ विख्यातौ मधुकैटभौ ॥ ४॥

तयोः विष्णोरभूद्भूयो युद्धं सार्वभयङ्करम् ।
चक्रिणा निहतावेतौ महामायाविमोहितौ ॥…
bottom of page