top of page

मूकाम्बिका पञ्चरत्नस्तोत्रम् (शङ्कराचार्यविरचितम्) | Mukambika pancharatna stotram

श्रीमूकाम्बिका पञ्चरत्न स्तोत्रम् 

मूलाम्भोरुहमध्यकोणविलसत् बन्धूकरागोज्ज्वलां
ज्वालाजालजितेन्दुकान्ति लहरीं आनन्दसन्दायिनीम् ।
हेलालालितनीलकुन्तलधरां नीलोत्पलीयांशुकां
कोल्लूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १॥

बालादित्य निभाननां त्रिनयनां बालेन्दुनाभूषितां
नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रगदाऽभयं च दधतीं सारस्वतार्थप्रदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २॥

मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारस्थितां
मायाजालविराजितां मदकरीं मारेण संसेविताम् ।
शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां
तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ ३॥

कल्याणीं कमलेक्षणां वरनिधिं मन्दार चिन्तामणिं
कल्याणी घनसंस्थितां घनकृपां…
bottom of page