top of page

राज्ञीस्तुतिः अथवा राज्नष्टकम् | rajni stuti

श्रीराज्ञीस्तुतिः 

ॐ संसारसागरमहं तरितुं सुनौकां
राज्ञीं नमामि शिरसा शिवसुन्दरीं त्वाम् ।
सर्वेश्वरीं सकललोकसुखप्रदात्रीं
त्वामेव देवि सततं शरणं प्रपद्ये ॥ १॥

मातः पयोधरयुगं पिबतु त्वदीयं
नागाननर्तुमुखवत्सलपुत्रयुग्मम् ।
निर्णेजनाम्बुन इह स्पृहयाम्यहं तु
त्वत्पादपद्मयुगलस्य भवाग्निशान्त्यै ॥ २॥

मातस्त्वदीयपरितोषविशेषलब्धे
छत्रे प्रहृष्यतु सदा भगवान्सुरेन्द्रः ।
पीयूषवर्षणकरात्तव देवि पाद-
च्छत्राद्विना किमपि राज्ञि न नाम याचे ॥ ३॥

मोहाटवीविकटसङ्कटपीडितोऽहं
राज्ञी प्रपन्नपरमार्तिहरा त्वमेका ।
जाज्वल्यतेऽम्ब हृदयार्तिकरो ममान्तः
पापाग्निरेशि शमयैनममास्वरूपे ॥ ४॥

आरारटीमि करुणं भवतापतप्तः
प्रोल्लालपीमि…
bottom of page