top of page
राज्ञीस्तोत्रम् २ (ओङ्काररूपेऽखिलवेदसारे) | Rajni stotram 2
राज्ञीस्तोत्रम्
ओङ्काररूपेऽखिलवे दसारे वेदान्तविज्ञानचणैः प्रगीते ।
मूर्ध्ना महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥ १॥
भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते ।
आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥ २॥
भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् ।
तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ ३॥
स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव ।
मातर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ ४॥
तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि ।
पीयूषपीयूषमयूखतुल्यं राज्ञि…