top of page
लघुषोडशार्णकलाविलासः | Laghu shodasharna kala vilasah
लघुषोडशार्णकलाविलासः
कल्याणं जगतामहं कथमुमे ध्यायामि सच्चिद्वपु-
स्त्रय्यन्तैर्मनसापि ते सह चिरं मृग्यापि यत्नेन च ।
ज्ञातुम् नो वदितुं शक्यमभवद् यस्मात् तथा भक्तितः
श्रीचक्राग्रगशैवमञ्चपरशैवाङ्कस्थितां भावये ॥ १॥
एलासौरभिकुन्तले परमुमे त्वां व्याप्य सर्वं स्थितां
काष्ठादिष्विव तैलवह्निनवनीताम्बुप्रवाहादिकम् ।
श्रीमूर्तिष्वतिसुन्दरासु नवबन्धूकप्रभास्वम्बिके
शक्यं किं नु तथापि ते परशिवे चास्थानमावाहये ॥ २॥
ईशावास्यमिदं त्वया सकलमप्यम्बासने मञ्जुले
त्वामारोहयितुं समस्तभुवनाधारं कथं शक्नुयाम् ।
मत्स्वान्ताब्जमपि त्वदासनवरं भूयाद्यतः सर्वदा
सर्वेषां हृदयारविन्दभवने नित्यं…bottom of page
