top of page

वराहमुखीस्तवः तथा वाराह्यनुग्रहाष्टकम् | Hymn to Goddess varAhamukhI

वराहमुखीस्तवः तथा वाराह्यनुग्रहाष्टकम् 
कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला
     हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी ।
कपिलनयना मध्ये क्षामा कठोरघनस्तनी
     जयति जगतां मातः सा ते वराहमुखी तनुः ॥ १॥

तरति विपदो घोरा दूरात् परिह्रियते भय-
     स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया ।
क्षपयति रिपूनीष्टे वाचां रणे लभते जयं
     वशयति जगत् सर्वं वाराहि यस्त्वयि भक्तिमान् ॥ २॥

स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः
     क्षुभितहृद…
bottom of page