top of page

वाराहीनिग्रहाष्टकम् | Varahi nigrahashtakam

वाराहीनिग्रहाष्टकम् 
श्रीगणेशाय नमः ।
देवि क्रोडमुखि त्वदंघ्रिकमल-द्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहला-घात-प्रभूत-व्यथा-
पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १॥

देवि त्वत्पदपद्मभक्तिविभव-प्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः पूरयसे कराब्ज-चषकं वांछाफलैर्मामपि ॥ २॥

चण्डोत्तुण्ड-विदीर्णदुष्टहृदय-प्रोद्भिन्नरक्तच्छटा- (विदीर्णदंष्ट्र)
हालापान-मदाट्टहास-निनदाटोप-प्रतापोत्कटम् ।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं
ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात् ॥ ३॥

श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां
जगत्त्राण-व्यग्र-हलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं…
bottom of page