top of page
वाराहीस्तवम् | Varahi stavam
श्रीवाराहीदेविस्तवम्
ध्यानम् -
ऐङ्कार द्वयमध्यसंस्थित लसद्भूबीजवर्णात्मिकाम् ।
दुष्टारातिजनाक्षि वक्त्रकरपत्सम्भिनीं जृम्भिणीम् ॥
लोकान् मोहयन्तीं दृशा च महासादंष्ट्राकरालाकृतिम् ।
वार्तालीं प्रणतोऽस्मि सन्ततमहं घोणिंरथोपस्थिताम् ॥
श्रीकिरि रथमध्यस्थां पोत्रिमुखीं चिद्घनैकसद्रूपाम् ।
हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् ॥ १॥
वाग्भवभूवागीशी बीजत्रयठार्णवैश्च संयुक्ताम् ।
कवचास्त्रानलजाया यतरूपां नैमि शुद्धवाराहीम् ॥ २॥
स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीम् ।
नतजन शुभकारिणीं श्रीकिरिवदनां नौमि सच्चिदानन्दाम् ॥ ३॥
पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् ।
अञ्चितमणिमयभूषां चिन्ततिफलदां नमामि वाराहीम्…bottom of page
