top of page

वाराह्यनुग्रहाष्टकम् | Varahi anugrah ashtakam

वाराह्यनुग्रहाष्टकम् 

ईश्वर उवाच
मातर्जगद्रचननाटकसूत्रधार-
स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यनीश्वरपदं समुपैति तादृक्-
कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १॥

नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बितभवाम्बुनिधिर्यतो यत्-
त्वन्नामसंसृतिरियं ननु न स्तुतिस्ते ॥ २॥

त्वच्चिन्तनादरसमुल्लसदप्रमेया-
ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३॥

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतो मतौ मम सदा प्रतिबिम्बिता त्वं
भूया भवानि विदधातु सदोरुहारे ॥ ४ ॥

लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा…
bottom of page