top of page
शान्तिस्तवः | shanti stava
शान्तिस्तवः
॥ त्यागराजविरचितः॥
स्वानन्दमन्दहसितां शिववामभागां
भृङ्गावलीकचभराकलितेन्दुमौलिम् ।
श्यामां विशालनयनामतिकोमलाङ्गीं
वन्दे स्मरारिमहिलां वरदां शिवाख्याम् ॥ १॥
कालदेशकलनाविवर्जिता स्वेच्छयैव भुवनान्यजीजनत् ।
क्रीडति स्वयमनेकभूमिका सा शिवाहमिति शान्तिमाश्रये ॥ २॥
स्वप्रकाशशिवशक्तिरूपिणी सर्वभूतहृदयाब्जहंसिका ।
निष्प्रकारसुखचन्द्रचन्द्रिका सा शिवाहमिति शान्तिमाश्रये ॥ ३॥
सर्वभूतहृदयप्रचोदिका शर्वविष्णुनिखिलात्मरूपिणी ।
निर्विकाररसरूपलक्षिता सा शिवाहमिति शान्तिमाश्रये ॥ ४॥
या परादिवचसामगोचरा रूपनामरहिता परा वरा ।
या त्रयीप्रमुखमार्गदर्शिनी सा शिवाहमिति शान्तिमाश्रये ॥ ५॥
निर्ममा निखिललोकरक्षणी कर्मकाण्डफलदानकामधुक् ।
आप्तकामधिषणात…bottom of page
