top of page

शूलिनीकवचम् (आकाशभैरवकल्पान्तर्गतम्) | shulini kavacham

श्रीशूलिनीकवचम् 
श्रीशिवः उवाच -
अथ वक्ष्ये महागुह्यं कवचं सर्वसिद्धिदम् ।
समाहितेन मनसा श‍ृणु कल्याणि तादृशम् ॥ १॥

शूलिन्याः कवचं दिव्यं जगद्रक्षणवर्धनम् ।
सर्वसिद्धिप्रदं श्रेष्ठं सर्वपापप्रणाशनम् ॥ २॥

सर्वमङ्गलमाङ्गल्यं सर्वैश्वर्यप्रदायकम् ।
ब्रह्मज्ञानप्रदं हृद्यं भीषणं जयवर्धनम् ॥ ३॥

सर्वरोगहरं शान्तं सर्वरक्षाकरं परम् ।
कवचस्य ऋषिर्देव्या मृत्युञ्जय उदाहृतः ॥ ४॥

उष्णिक् छन्दस्तथा देवि देवता जगदम्बिका ।
दुं कारं बीजमित्युक्तं स्वाहा शक्तिस्ततः परम् ॥…
bottom of page