top of page

शूलिनीविश्वरूपस्तुतिः (आकाशभैरवकल्पान्तर्गता) | shulini vishvarupa stuti

श्रीशूलिनीविश्वरूपस्तुतिः 
श्रीदेव्युवाच -
सर्वसिद्धिप्रदायिन्याः शूलिन्याः सर्वबोधक ।
विश्वरूपस्तुतिं श्रोतुं  इच्छाम्यद्याहमादरात् ॥ १॥  var  इच्छाम्यहमिहादरात्

श्रीशिव उवाच --
साधु कल्याणि तत्मर्वं यद्यदुक्तं मयाऽधुना ।
अतिगुह्यतमं श्रेष्ठं स्मरणात्सर्वसिद्धिदम् ॥ २॥

सर्वरोगप्रशमनं सर्वोत्पातविनाशनम् ।
सर्वदुःख(दुर्ग) हरं दिव्यं सर्वभीतिनिवारणम् ॥ ३॥

सर्वक्रूरक्रियापद्घ्नं सर्वपापविमोचनम् ।
सर्वाभीष्टप्रदं रम्यं सद्यस्तादात्म्यसिद्धिदम् ॥ ४॥

वक्ष्यमाणस्तुतिं मन्त्री ज्ञात्वा गुरुमुखात् दृढम् ।
ध्यायन् ध्यायन् प्रतिश्लोकं सर्वकर्माणि साधयेत् ॥ ५॥

नानाविधक्रियाभेदस्वरूपां शूलिनीं क्रमात् ।
ध्यात…
bottom of page