top of page
षष्ठीदेवीस्तोत्रम् (ब्रह्मवैअर्तपुराणान्तर्गतम्) | Shri Shashthi Devi Stotram
श्रीषष्ठीदेवि स्तोत्रम्
श्री गणेशाय नमः ॥
ध्यानम् ।
श्रीमन्मातरमम्बिकां विधि मनोजातां सदाभीष्टदां
स्कन्देष्टां च जगत्प्रसूं विजयदां सत्पुत्र सौभाग्यदाम् ।
सद्रत्नाभरणान्वितां सकरुणां शुभ्रां शुभां सुप्रभां
षष्ठांशां प्रकृतेः परां भगवतीं श्रीदेवसेनां भजे ॥
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम् ।
सुपुत्रदां च शुभदां दयारूपां जगत्प्रसूम् ॥
श्वेतचम्पक वर्णाभां रक्तभूषण भूषिताम् ।
पवित्ररूपां परमां देवसेनां पराम्भजे ॥
अथ श्रीषष्ठीदेवि स्तोत्रम् ।
स्तोत्रं शृणु मुनिश्रेष्ठ…