top of page
सङ्कटारात्रिकालीनस्तुतिः | sankata ratrikalina stuti
श्रीसङ्कटारात्रिकालीनस्तुतिः
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्य-दुःख-भय-हारिणि का त्वदन्या
सर्वोपकार-करणाय सदाऽऽर्द्रचित्ता ॥ १॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देविविश्वम् ॥ २॥
रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता …