top of page
सङ्कटासहस्रनामस्तोत्रम् (महाकालसंहितान्तर्गतम्) | sankatasahasranama stotram
श्रीसङ्कटासहस्रनामस्तोत्रम्
(महाकालसंहितोक्तं)
॥ श्रीसङ्कटादेव्यै नमः ॥
मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति ।
बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥
श्रीभैरव्युवाच -
यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् ।
तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥
श्रीभैरव उवाच -
शृणु देवि ! महेशानि नाम्नामष्टसहस्रकम् ।
पुरा त्रिपुरनाशार्थं यन्मया निर्मितं शुभे ॥ ३॥
यस्याः प्रसादमात्रेण भस्मीभूतं पुरत्रयम् ।
तस्याः श्रीसङ्कटादेव्या नामाख्यानं वदामि ते…