top of page

सन्तोषीमाताप्रातःस्मरणम् पञ्चरत्नस्तोत्रम् | santoshi mata pratah smaranam

श्रीसन्तोषीमातु प्रातःस्मरण पञ्चरत्नम् 

ॐ श्रीगणेशाय नमः ।
प्रातःस्मरामि निजपादनतस्य जन्तोः
सर्वेष्टपूरणनिजव्रतमाननीयाम् ।
विश्वैकवन्द्यनिजपादसुपङ्कजां तां
सन्तोषिमातरममूं वरदां वरेण्याम् ॥ १॥

प्रातर्नमामि सकलस्य हि भारतस्य
सर्वेप्सितप्रदमहामहिमोज्ज्वलां ताम् ।
श्रीशङ्खचक्रवरपद्मसुपादरेखां
सन्तोषिमातरममूं वरदां वरेण्याम् ॥ २॥

प्रातर्वदामि कमला वरदा च वाणी
गौरी स्वरूपमुपकाम्य विराजमानाम् ।
सन्तोषिमातुरखिलेष्टफलप्रदानात्
माहात्म्यमेव विदितं जगदम्बिकायाः ॥ ३॥

प्रातः श‍ृणोमि निखिलावनिभक्तवर्ग-
सन्तोषभाग्यविभवाऽभयदान शौण्डम् ।
सर्वस्वदाननिपुणं सुखदा विशेषं
सन्तोषिमातुरधिकाधिकभक्तिपूर्णम् ॥ ४॥

प्रतः पठामि निखिलावधि गीयमानं
श्रेयःप्रदं श्रितजनावनजाकरूकम् ।
साहस्रनामशतनामसुगीतजातं
सन्तोषिमातुरखिलाण्डमनोहरायाः ॥ ५॥

मध्यप्रदेशगिरिश‍ृङ्गनिकेतनायाः
सन्तोषिमातुरधिकाधिकभाग्यदायाः…
bottom of page