top of page

सन्तोषीमातुःसुप्रभातस्तोत्रम् | santoshi matu suprabhat stotram

श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम् 
ॐ श्रीगणेशाय नमः ।
श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम् ।
विघ्नेश्वरस्य महिता किल सिद्धिबुद्धि पुत्रद्वस्य भगिनी किल या बभूव ।
दुर्गा रमा महित वाणी महास्वरूपा सन्तोषिणी भगवती शरणं ममास्तु ॥ १॥

सर्वत्र शान्तिगुरुभक्तिदयाप्रपूर्णे सन्तोषनित्यसुजने वरमध्यदेशे ।
उत्तुङ्गशैलरमणीयनिजालयेऽद्य सन्तोषनित्यजननी जननी चकास्ति ॥ २॥

यां वै स्तुवन्ति सुजनाः परशक्तिरूपां शक्तित्रयात्मकतनुं धनदानतुष्टाम् ।
सन्तोषपूर्णहृदयां स्मरणादपीह सन्तोषमातरममुं प्रणमामि मूर्ध्ना ॥ ३॥

स्वस्यैव सोदरकृते सहजातकन्या रक्षासुबन्धनमहो…
bottom of page