top of page

स्वधास्तोत्रम् (ब्रह्मवैवर्तपुराणान्तर्गतम्) | svadha stotram in brahmavaivartapurana

स्वधास्तोत्रम् 


ब्रह्मोवाच -
स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः ।
मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ १ ॥

स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् ।
श्राद्धस्य फलमाप्नोति कालतर्पणयोस्तथा ॥ २ ॥

श्राद्धकाले स्वधास्तोत्रं यः श‍ृणोति समाहितः ।
लभेच्छ्राद्धशतानाञ्च पुण्यमेव न संशयः ॥ ३ ॥

स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः ।
प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम् ॥ ४ ॥

पितॄणां प्राणतुल्या त्वं…
bottom of page