top of page
अम्बानवमणिमाला अथवा आर्यानवकम् अथवा नवरत्नमालिका | Amba navamanimala or Arya navakam
अम्बा नवमणिमाला अथवा आर्या नवकम्
वाणीं जितशुकवाणीमलिकुलवेणीं भवाम्बुधिद्रोणीम् ।
वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं नौमि शङ्करार्धाङ्गीम् ॥ २॥
कमलाकमलजकान्ताकरसारसदत्तकान्तकरकमलाम् ।
करयुगलविधृतकमलां विमलां कमलाङ्कचूडसकलकलाम् ॥ ३॥
सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनाम् ।
करुणोज्जीवितमदनां सुरकुशलायाऽसुरेषुकृतकदनाम् ॥ ४॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बाम् ।
पालितसुजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५॥
शरणागतजनभरणां करुणावरुणालयां नवावरणाम् ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६॥
तुङ्गस्तनजितकुम्भां कृतपरिरम्भांशिवेन गुहडिम्भाम् ।
दारितशुम्भनिशुम्भां नर्तितरम्भां…