top of page

अम्बास्तवम् (वासुदेवन् एलयथेन विरचितम्) | Amba stavam

अम्बास्तवम् 
अम्बिके! प्रणमामि ``त्वामायरे'' ग्रामदेवते ।
सर्वशक्ते, प्रसीद त्वं सच्चिदानन्दरूपिणि ॥ १॥

        ग्रामरक्षाबद्धदीक्षे, ग्रामपुष्टिप्रदायिनि! ।
        आपन्निवारके देवि! दयामयि, नमोऽस्तु ते ॥ २॥

प्रसन्नकरुणापूर्णविलोलनयनाम्बुजाम् ।
आकुञ्चितमनोहारिस्फुरच्चिल्लीमत्लिकाम् ॥ ३॥

        सिन्दूरतिलकोद्भासिविशालनिटिलाञ्चिताम् ।
        कपोलबिम्बितारम्यमणिकुण्डलभूषिताम् ॥ ४॥

मन्दस्मितमनोहारि मधुराधरशोभिताम् ।
आनीलपट्टवसनसमावृतकलेवराम् ॥ ५॥

        प्रशान्तदिव्यमहसा परिवेषितविग्रहाम् ।
        ध्यायामि त्वां महादेवीं श्रीविद्याशक्तिरूपिणीम् ॥ ६॥

प्रसीद त्वं शिवे, देवि, लक…
bottom of page