top of page

अम्बास्तोत्रम् १ (स्वामी विवेकानन्दविरचितं का त्वं शुभकरे) | ambastotram 1 by Swami Vivekanand

अम्बास्तोत्रं स्वामी विवेकानन्दरचितम् 
का त्वं शुभकरे सुखदुःखहस्ते
      आघूर्णितं भवजलं प्रबलोर्मिभङ्गैः ।
शांतिं विधातुमिह किं बहुधा विभग्नाम्
      मतः प्रयत्नपरमासि सदैव विश्वे ॥ १॥

सम्पादयत्यविरतं त्वविरामवृता
      या वै स्थिता कृतफलं त्वकृतस्य नेत्री ।
सा मे भवत्वनिदिनं वरदा भवानी
      जानाम्यहं ध्रुवमिदं धृतकर्मपाशा ॥ २॥

को वा धर्मः किमकृतं क्वः कपाललेखः
      किंवादृष्टं फलमिहास्ति हि यां विना…
bottom of page