top of page
अम्बिकात्रिशती | ambikatrishati
अम्बिकात्रिशती
गङ्गाधरमखिविरचिता ।
परमाभरणं शम्भोः पर्वतनाथस्य पुण्यपरिपाकः ।
निजलोचनवीक्षणतो रक्षितलोकत्रयं च तद्रत्नम् ॥ १॥
निगमान्तपरमविद्या दद्यादद्य प्रमोदमिह नमताम् ।
निखिलचराचरचिन्मयरूपं रक्षाकरं च लोकानाम् ॥ २॥
आदृतशिववामान्तामार्यामार्याभिमान्यमहिमानम् ।
आगममौलिवतंसां वन्दे चिद्रूपकन्दलां जननीम् ॥ ३॥
परमशिवभागधेयं सुरमुनिमनुजादिभिः सदा ध्येयम् ।
यन्नाम कर्णपेयं पातु सदा वेदमौलिकामेयम् ॥ ४॥
जयति तवाम्ब कटाक्षे को वा सेवेत कल्पभूमिरुहम् ।
कामादिहानिदोऽसौ नमतां सम्पत्प्रदानकृतदीक्षः ॥ ५॥
भुवनजननी पुरारेः महिषी…bottom of page
