top of page
अम्बिकास्तवः | ambikaastavah
श्री अम्बिकास्तवः
श्रीगिरीशप्रियां चिन्तितार्थप्रदां
रत्नताटङ्किनीं राजबिम्बाननाम् ।
सैरिभेन्द्रादिमत्तेभपञ्चानना-
मापदुत्तारिणीमम्बिकामाश्रये ॥ १॥
वारुणीसेवितां कीरवाणीस्तुतां
शत्रुसंहारिणीं श्रेयसः कारिणीम् ।
वारुणीपारणां चारुसञ्चारिणी-
मापदुत्तारिणीमम्बिकामाश्रये ॥ २॥
सत्रयीकोणमध्यस्थबिन्दूपरि-
प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम् ।
सर्वसौभाग्यसन्धायिनीं मायिनी-
मापदुत्तारिणीमम्बिकामाश्रये ॥ ३॥
मातृकाभिः परीवारितां किञ्चिदु-
न्मीलतां धीवरप्रेक्षणानन्दिनीम् ।
मत्तमातङ्गकुम्भोरुवक्षोरुहा-
मापदुत्तारिणीमम्बिकामाश्रये ॥ ४॥
यक्षगन्धर्वसिद्धाङ्गनामौलिग-
र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम् ।
मातृकारूपिणीं मातृयन्त्रात्मिका-
मापदुत्तारिणीमम्बिकामाश्रये ॥ ५॥
वीरमाहेश्वरीं चारुधर्मक्रियां
पारगात्रान्तरागारसंवासिनीम् ।
किङ्कराशेषसम्पत्करीं शाङ्करी-
मापदुत्तारिणीमम्बिकामाश्रये ॥ ६॥
ऐन्द्रवज्रादिकान्तिच्छटारञ्जिनीं
शेखरीभूतशुक्लेन्दुरेखाभराम…bottom of page
