top of page
अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम् (स्कन्दमहापुराणान्तर्गतम् चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः) | ardhanarishvary ashtottara shatanama stotram
अर्धनारीश्वर्यष्टोत्तरशतनामस्तोत्रम्
श्रीगणेशाय नमः ॥
ॐ चामुण्डिकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञीमहादेवस्सदाराध्या सदाशिवः ॥ १॥
शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २॥
कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनि शूलधारकः ॥ ३॥
ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमदग्नेशजननी षडाननसुजन्मभूः ॥ ४॥
पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभ्रृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहरः ॥ ५॥
सिंहवाहा वृषारूढः श्यामाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ॥ ६॥
महाबलाचलावासा महाकैलासवासभूः ।
भद्रकाली वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७॥
भण्डासुरादिसंहर्त्री…bottom of page
