top of page

आर्याभ्यर्चना | Aryabhyarchana

आर्याभ्यर्चना 
शोधय मानस-सरणिं, बोधय विज्ञान कोरकाण्यभितः ।
साधय सकल-मनोरथमपार-करुणानिधे  ! मातः ! ॥ १॥

जननि ! यदि त्वमुपेक्षामस्मद्वीक्षाकृते समाश्रयसे ।
आदिश कुमुदविकाशे धन्या चन्द्रद्युतेः कान्या ॥ २॥

साधुर्वाऽसाधुर्वा यौष्माकत्वेन विश्रुतो जगति ।
मातरुपेक्षायोगे कथय कथं जीवनं घटते ॥ ३॥

इदमर्थये त्ववश्यं कर्मकला-प्रसरबाध्यमानोऽपि ।
जन्मनि जन्मनि भवतीं, न विस्मरामि स्मराम्येव ॥ ४॥

प्रतिफलतु चित्तफलके भवती भवतीव्र-वासना-शमनी ।
शमन-प्रशमन-सरणी शरणीभूता प्रपञ्चस्…
bottom of page