top of page

उमामहिमा उमाप्रादुर्भाववर्णनम् सार्थ (शिवपुराणान्तर्गता) | uma mahima

श्रीउमादेवीमहिमा अथवा उमाप्रादुर्भाववर्णनम् 
मुनय ऊचुः ।
उमाया भुवनेशान्यास्सूत सर्वार्थवित्तम ।
अवतारं समाचक्ष्व यतो जाता सरस्वती ॥ १॥

या गीयते परब्रह्ममूलप्रकृतिरीश्वरी ।
निराकारापि साकारा नित्यानन्दमयी सती ॥ २॥

सूत उवाच ।
तापसाः श‍ृणुत प्रेम्णा चरित्रं परमं महत् ।
यस्य विज्ञानमात्रेण नरो याति परां गतिम् ॥ ३॥

देवदानवयोर्युद्धमेकदासीत्परस्परम् ।
महामायाप्रभावेणामराणां विजयोऽभवत् ॥ ४॥

ततोऽवलिप्ता अमरास्स्वप्रशंसां वितेनिरे ।
वयं धन्या वयं धन्याः किं करिष्यन्ति…
bottom of page