top of page

उमामहेश्वराष्टकम् मीनेक्षणासुन्दरेश्वरस्तोत्रम् (हालास्यमाहात्म्ये) | uma maheshvarashtakam

उमामहेश्वराष्टकम् 
पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ १॥

निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २॥

शैलराजस्य जामातः शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ३॥

शैलराजात्मजे! मातः शातकुम्भनिभप्रभे!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४॥

भूतनाथपुराराते! भुजङ्गकृतभूषण!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ५॥

पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६॥

हालास्येश दयामूर्त्ते! हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ७॥

नितम्बिनि…
bottom of page