top of page

उमाशतकम् (गणपतिमुनिविरचितम्) | uma shatakam

उमाशतकम्


प्रथमं दशकम् (आर्यावृत्तम्)

फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य ।

पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥


कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा ।

आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥


आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः ।

तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥


सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः ।

अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥


इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः ।

अन्तर्व्यापकशक्तेः समपद्यत ते…

bottom of page