top of page

उमासहस्रनामस्तोत्रम् | uma sahasranama stotram

उमासहस्रनामस्तोत्रम् 

ॐ
ॐ नमः उमा भगवत्यै ।
उमा उषा च वैदेही रमा गङ्गेति पञ्चकम् ।
पठेन्नित्यं स्मरेद् वापि-घोरसङ्कट-नाशकम् ॥

प्रस्ताविका
दुष्टानार्य-कृताद् घोरादुपद्रव-विपद्भरात् ।
स्वधर्मरक्षाहेत्वर्थ-त्यक्तकश्मीरमण्डलः ॥ १॥

देव्या उमायाः सद्भक्तः स्वयमानन्दसाधकः ।
प्राचारयञ्जगन्मातुः पूजां जम्बूपुरे पुनः ॥ २॥

मुट्ठीस्थले सुनिर्माय मन्दिरं सुमनोरमम् ।
जलकुण्डसमायुक्तं शोभनं सुपरिष्कृतम् ॥ ३॥

समस्तपूजा-सामग्रीयुतं पूजकसेवितम् ।
प्राचारयदुमादेव्याः पूजनं विधिपूर्वकम् ॥ ४॥

पूजार्थं निरमाद्देव्याः स्तवं नामसहस्रकम् ।
प्राचारयच्च तद्भक्त्या पाठहोमकृते स्वयम्…