top of page

उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-01


उमासहस्रम्


प्रथमं शतकम्

प्रथमः स्तबकः

व्योमशरीरा, स्त्रीरूपा च (आर्यावृत्तम्)


अखिलजगन्मातोमा तमसा तापेन चाकुलानस्मान् ।

अनुगृह्णात्वनुकम्पासुधार्द्रया हसितचन्द्रिकया ॥ १.१॥


निखिलेषु प्रवहन्तीं निरुपाधिविमर्शयोगदृश्योर्मिम् ।

अजरामजाममेयां कामपि वन्दे महाशक्तिम् ॥ १.२॥


सा तत्त्वतः समन्तात्सत्यस्य विभोस्तता तपश्शक्तिः ।

लीलामहिलावपुषा हैमवती तनुषु कुण्डलिनी ॥ १.३॥


परमः पुरुषो नाभिर्लोकानां सत्य उच्यते लोकः ।

परितस्ततः सरन्ती सूक्ष्मा…

bottom of page