top of page
उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-02
चतुर्थः स्तबकः
आध्यात्मिकविभूतयः (गीतिवृत्तम्)
अमृतांशुबिंबसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः ।
सारो गौरीवदनाद् दरहासो हरतु दुःखजालं नः ॥ ४.१॥
कुलकुण्डे प्राणुवन्ती चेतन्ती हृदि समस्तजन्तूनाम् ।
मूर्धनि विचिन्तयन्ती मृत्युञ्जयमहिषि विजयते भवती ॥ ४.२॥
तेजोजलान्नसारैस्त्रयोऽणवो मूलहृदयमस्तेषु
पाकात्ते निष्पन्नास्त्रैलोक्यव्यापिकेऽंब देहवताम् ॥ ४.३॥
पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरन्ध्रसंज्ञेन ।
नाडीपथेन गत्वा तैजसमणुमाविशस्यमेयबले ॥ ४.४॥
अंशेनाविश्यादौ यासि…
bottom of page
