top of page
उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-03
अष्टमः स्तबकः
चरित्रत्रयम् (अनुष्टुब्वृत्तम्)
तमसामभितो हन्ता चण्डिकाहासवासरः ।
सतां हृदयराजीवविकासाय प्रकल्पताम् ॥ ८.१॥
या निद्रा सर्वभूतानां योगनिद्रा रमापतेः ।
ईड्यतां सा महाकाली महाकालसखी सखे ॥ ८.२॥
विरिञ्चिना स्तुते मातः कालि त्वं चेन्न मुञ्चसि ।
मधुकैटभसंहारं करोतु कथमच्युतः ॥ ८.३॥
वासवः काशनीकाशयशोलङ्कृतदिङ्मुखः ।
महोग्रविक्रमाद्यस्मादासीदाजौ पराङ्मुखः ॥ ८.४॥
यत्प्रतापेन सन्तप्तो मन्ये बाडबरूपभृत्…
bottom of page
