top of page
उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-04
चतुर्थं शतकम्
त्रयोदशः स्तबकः
कटाक्षः (उपजातिवृत्तम्)
भवाम्बुधिं तारयताद्भवन्तं
हासोऽद्भुतः कुञ्जरवक्त्रमातुः ।
यो हन्ति बिम्बाधरलङ्घनेऽपि
व्यक्तालसत्वो हरितां तमांसि ॥ १३.१॥
सक्तः सदा चन्द्रकलाकलापे
सर्वेषु भूतेषु दयां दधानः ।
गौरीकटाक्षो रमणो मुनिर्वा
मदीयमज्ञानमपाकरोतु ॥ १३.२॥
कृपावलोको नगकन्यकायाः
करोतु मे निर्मलमन्तरङ्गम् ।
येनाङ्कितः शङ्कर एकतत्त्वं
विश्वं लुलोके जगते जगौ च ॥ १३.३॥
कालीकटाक्षो…
bottom of page
