top of page

उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-05

षष्ठं शतकम्

एकविंशः स्तबकः

अर्धनारीश्वरः (अनुष्टुब्वृत्तम्)


इतः पीत्वा कुचं स्कन्दे प्रसारितकरे ततः ।

जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ॥ २१.१॥


एकतो मणिमञ्जीरक्वाणाहूतसितच्छदम् ।

अन्यतो नूपुराहीन्द्रफूत्कारकृततद्भयम् ॥ २१.२॥


गीर्वाणपृतनापालं बालं लालयदेकतः ।

उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ॥ २१.३॥


विडम्बितब्रह्मचारिकोकैकस्तनमेकतः ।

कवाटार्धनिभं बिभ्रद्वक्षः केवलमन्यतः ॥ २१.४॥


सेनान्याऽऽस्वादितस्तन्यमनुफूत्कुर्वतैकतः ।

फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ॥ २१.५॥


एकतो दोर्लतां…

bottom of page