top of page

उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-06

अष्टमं शतकम्

एकोनत्रिंशः स्तबकः

नवविधभजनम् (मदलेखावृत्तम्)


आयुष्या भुवनानां चक्षुष्यास्त्रिपुरारेः ।

कुर्वन्तु प्रमदं नः पार्वत्याः स्मितलेशाः ॥ २९.१॥


नात्यर्घाणि निरर्थं नेतव्यानि दिनानि ।

अम्बायाश्चरितानि श्रोतव्यान्यनघानि ॥ २९.२॥


उद्योगं कुरु जिह्वे संहर्तुं दुरितानि ।

पूतान्यद्रिसुतायाः कीर्त्यन्तां चरितानि ॥ २९.३॥


श्रीसक्तिर्विनिवार्या चिन्ता काऽपि न कार्या ।

नित्यं चेतसि धार्या दीनानां गतिरार्या ॥ २९.४॥

bottom of page