top of page
उमासहस्रम् (गणपतिमुनिविरचितम्) | uma sahasram | Part-07
षट्त्रिंशः स्तबकः
प्रकीर्णकम् (तूणकवृत्तम्)
उन्नतस्तनस्थलीविलोलहारमौक्तिक-
व्रातदीधितिप्रतानबद्धसौहृदा सदा ।
अन्धकारिकामिनीदरस्मितद्युतिर्धुनो-
त्वन्धकारमन्तरङ्गवासिनं घनं मम ॥ ३६.१॥
अम्बरस्थले पुरा पुरन्दरो ददर्श यां
यां वदन्ति पर्वतप्रसूतिमैतिहासिकाः ।
सा परा पुरामरेः पुरन्ध्रिकाऽखिलाम्बिका
पुत्रकाय मज्जते ददातु दक्षिणं करम् ॥ ३६.२॥
पादपङ्कजे धृता नरैरबाह्यभक्तिभिः
पाणिपङ्कजे धृता नवेन्दुखण्डधारिणा ।
चारुहेमहंसका मनोज्ञरत्नकङ्कणा
लोकजालपालिनी पुनातु मां विलासिनी ॥ ३६.३॥
उक्षराजवाहनस्य…
