top of page
कमलाम्बिकास्तोत्रम् अथवा कमलाम्बिकाष्टकम् (बन्धूकद्युतिमिन्दुबिम्बवदनाम्) | kamalambika stotram
श्रीकमलाम्बिकास्तोत्रम् अथवा श्रीकमलाम्बिकाष्टकम्
बन्धूकद्युतिमिन्दुबिम्बवदनां वृन्दारकैर्वन्दितां
मन्दारादि समर्चितां मधुमतीं मन्दस्मितां सुन्दरीम् ।
बन्धच्छेदनकारिणीं त्रिनयनां भोगापवर्गप्रदां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ १॥
श्रीकामेश्वरपीठमध्यनिलयां श्रीराजराजेश्वरीं
श्रीवाणीपरिसेविताङ्घ्रियुगलां श्रीमत्कृपासागराम् ।
शोकापद्भयमोचिनीं सुकवितानन्दैकसन्दायिनीं
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ २॥
माया मोहविनाशिनीं मुनिगणैराराधितां तन्मयीं
श्रेयःसञ्चयदायिनीं गुणमयीं वाय्वादि भूतां सताम् ।
प्रातःकालसमानशोभमकुटां सामादि वेदैस्तुतां
वन्देऽहं कमलाम्बिकामनुदिनं वाञ्छानुकूलां शिवाम् ॥ ३॥
बालां भ क्तजनौघचित्तनिलयां बालेन्…bottom of page
