top of page
गिरिजास्तुतिः देवगणैःकृता (शिवरहस्यान्तर्गता) | Girija stutih devaganaihkrita
देवगणैः कृता गिरिजास्तुतिः
गिरिराजकुमारिके शिवे चरणं ते कमलामलं कथम् ।
न निरीक्षितमादरेण तत् निगमैरप्यवधारितं न हि ॥ १॥
अधुना चरणाम्बुजं शिवे यदि ते दृष्टिपथं प्रयास्यति ।
कथमप्यघकोटिनाशकं सकलाभीष्टदमप्यसंशयम् ॥ २॥
न विमानमणिप्रभागणैः कथमप्यादरतोऽपि सर्वथा ।
नयनैर्न निरीक्षितं ततः कथमस्माकमुमे मतिर्भवेत् ॥ ३॥
शफरीचटुलोलदृष्टिभिः कथमप्यम्ब विलोकयाशु नः ।
यदि ते करुणारसालयः सुवर्गोऽप्यपवर्गसाधनम् ॥ ४॥
अतिदीनदयालुता शिवे त्वयि वेदैरपि निश्चिता…bottom of page
