top of page
गोमत्यम्बाष्टकम् | gomatyambashtakam
श्रीगोमत्यम्बाष्टकम्
ॐ श्रीगणेशाय नमः ॥
भूकैलासे मनोज्ञे भुवनवनवृते नागतीर्थोपकण्ठे
रत्नप्रकारमध्ये रविचन्द्रमहायोगपीठे निषण्णम् ।
संसारव्याधिवैद्यं सकलजननुतं शङ्खपद्मार्चिताङ्घ्रिं
गोमत्यम्बासमेतं हरिहरवपुषं शङ्करेशं नमामि ॥
लक्ष्मीवाणीनिषेविताम्बुजपदां लावण्यशोभां शिवां
लक्ष्मीवल्लभपद्मसम्भवनुतां लम्बोदरोल्लासिनीम् ।
नित्यं कौशिकवन्द्यमानचरणां ह्रीङ्कारमन्त्रोज्ज्वलां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ १॥
देवीं दानवराजदर्पहरिणीं देवेन्द्रसम्पत्प्रदां
गन्धर्वोरगयक्षसेवितपदां श्रीशैलमध्यस्थिताम् ।
जातीचम्पकमल्लिकादिकुसुमैः संशोभिताङ्घ्रिद्वयां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ २॥
उद्यत्कोटिविकर्तनद्युतिनिभां मौर्वीं भवाम्भोनिधेः
उद्यत्तारकनाथतुल्यवदनामुद्योतयन्तीं जगत् ।
हस्तन्यस्तशुकप्रणाळसहितां हर्षप्रदामम्बिकां
श्रीपुन्नागवनेश्वरस्य महिषीं ध्यायेत्सदा गोमतीम् ॥ ३॥
कल्याणीं कमनीयमूर्तिसहितां कर्पूरदीपोज्ज्वलां
कर्णान्तायतलोचनां…bottom of page
